Kwatha
Sandhanadravya
Madhuradravya
Useful in chronic ulcerative/ non-ulcerative skin disease and leucoderma.
खदिरस्य तुलार्धं तु देवदारु च तत्समम्
बाकुची द्वादशपला दार्वी स्यात्पलविंशतिः
त्रिफला विंशतिपला ह्यष्टद्रोणेऽम्भसः पचेत् ।
कषाये द्रोणशेषे च पूते शीते विनिक्षिपेत्
तुलाद्वयं माक्षिकस्य तुलैका शर्करा मता
धातक्या विंशतिपलं कङ्कोलं नागकेशरम्
जातीफलं लवङ्गैलात्वक्पत्राणि पृथक्पृथक् ।
पलोन्मितानि कृष्णाया दद्यात्पलचतुष्टयम् ।। ६३
घृतभाण्डे विनिक्षिप्य मासादूर्ध्वं पिबेन्नरः ।
महाकुष्ठानि हृद्रोगं पाण्डुरोगार्बुदे तथा ।।६४
गुल्मं ग्रन्थि कृमीन्कासं श्वासं प्लीहोदरं जयेत् ।
एष वै खदिरारिष्टः सर्वकुष्ठनिवारणः
Sarngadhara Samhitha, Asavarishta kalpana
Asava AND Arishta