वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्।
घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्॥
खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि।
त्रिजातधन्यमरिचं पृथगर्धपलांशकम्॥
अवतारितशीते च दत्त्वा क्षौद्रं घृतार्धकम्।
खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्॥
कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्।
उरःसन्धानजननं मेधास्मृतिबलप्रदम्॥
अश्वभ्यां विहितं हृद्य कूष्माण्डकरसायनम् l
Ashtanga Hridaya Kasa chikitsa
Lehyam