बलाकषाय कल्काभ्यां तैलं क्षीरसमं पचेत् ।
सहस्र शतपाकं तद्वातासृग्वातरोगनुत् ॥
रसायनं मुख्यतमं इन्द्रियाणां प्रसादनं ।
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनं ॥
कुपिते मार्गसंशोधान्मेदसो वा कफस्य च ।
अतिवृद्धानिले शस्तनाऽदौ स्नेहनबृहणं ॥
कृत्वातत्राढ्यवातोक्त वातशोणितकंततः।
भेषजं स्नेहनं कुर्यात् यच्च रक्तप्रसादनं ॥
प्राणादि कोपे युगपत् यथोद्दिष्टं यथामयं।
यथासन्नं च भैषज्यं विकल्प्यंस्याद्यथोल्बणं ।
नीते निरामतां सामे स्वेदलंघनपाचनैः।
रूक्षैरालेपसेकाद्यैः कुर्यात्केवलवातनुत्॥
Sahasrayoga
Taila