कुटजत्वक्तुलां द्रोणे पचेदष्टांशशेषितम् ।
कल्कीकृत्य क्षिपेत्तत्र तार्क्ष्यशैलं कटुत्रयम् ॥
रोध्रद्वयं मोचरसं बलां दाडिमजां त्वचम् ।
बिल्वकर्कटिकां मुस्तम् समङ्गां धातकीफलम् ॥
पलोन्मितं दशपलं कुटजस्य एव च त्वचः ।
त्रिंशत्पलानि गुडतो घृतात्पूते च विंशतिः ॥
तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् ।
सर्वार्शो ग्रहणीदोषश्वासकासान्नियच्छति ॥
Ashtanga Hridaya Arsho chikitsa
Lehyam