Madhuradravya
लोध्रमूर्वाशठीवेल्ल भारङ्गीनतनखप्लवान्
कलिङ्गकुष्ठ क्रमुकप्रियङ्गवतिविषाग्निकान्
द्वेविशाले चतुर्जातं भूनिम्बं कटुरोहिणीम्
यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम्
कर्षांशमम्बुकलशे पादशेषे स्रुते हिमे
द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षमुपेक्षया
लोध्रासवोयं मेहार्शः श्वित्र कुष्ठारुचि कृमीन्
पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति ।
Ashtanga Hridaya, Prameha chikitsitam
Asava AND Arishta