Sandhanadravya
Madhuradravya
लोहचूर्णं त्रिकटुकं त्रिफलश्च यमानिका
विडङ्गं मुस्तकं चित्रं चतुः सख्यपलं क्षिपेत
धातकीकुसुमानां तु प्रक्षिपेत्पल विंशतिम्
चूर्णीकृत्य ततः क्षौद्रं चतुः षष्टिपलं पृथक्
दद्याद् गुडतुलां तत्र जलद्रोणद्वयं तथा
घृतभाण्डे विनिक्षिप्य निदध्यान्मासमात्रकम्
लौहासवममुं मर्त्यः पिबेद्वह्निकरं परम्
पाण्डुश्वयथुगुल्मानिजठराण्यर्शसांरुजम्
कुष्ठं प्लीहामयं कण्डू कासं श्वासं भगन्दरम्
अरोचकञ्च ग्रहणीं हृद्रोगञ्च विनाशयेत् ।
Bhaishajya Ratnavali-Pandu
Asava AND Arishta