Madhuradravya
द्रोणं मधूकपुष्पाणां विडङ्गं च ततोऽर्धतः
चित्रकस्य ततोऽर्धं च तथा भल्लातकाढकम्॥
मञ्जिष्ठाऽष्टपलं चैतज्जलद्रोणत्रये पचेत्।
द्रोणशेषं श्रृतं शीतं मध्वर्धाढकसंयुतम् ॥
एलामृणालागुरुभिश्चन्दनेन च रूषिते।
कुम्भे मासं स्थितं जातमासवं तं प्रयोजयेत् ।
ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत् ।
शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः ॥
Ashtanga Hridaya, Grahani Dosha chikitsa
Asava AND Arishta