त्रिकटुत्रिफलात्रिजातजातीफल
पत्राग्निवराल धान्यकानि ॥
त्रियवानिविडङ्गचव्यकुष्ट ।
त्रिवृताग्रंथिकवाजिगंधकानि ॥
स भार्ङ्गीतेजोवतिकेसराणि ।
निष्कद्वयोन्मानविचूर्णितानि ॥
संशुद्धगंधोपलमाहिषाक्ष ।
मधुस्नुहीनां च चतुष्पलानि ॥
द्विषट्पलोन्मानवृते विपक्के ।
सितोपलद्वादशकं क्षिपेञ्च ॥
ततोन्मथित्वा तु खजेन तस्मिन् ।
सुपाकमायाति ततोऽवतार्य ॥
पूर्वोक्तचूर्णानि विकीर्य शीते ।
गंधोपलस्यापि रजांसि दत्वा ॥
संयोज्य सम्यक् च सुशीतलेऽस्मिन् ।
प्रस्थं प्रदद्यात् मधुनः सुपात्रे ॥
विन्यस्य गुप्तं तु रसायनं तत् ।
प्रातर्लिहेत् कर्षयुतं हिताशी ॥
कुष्टं किलासं पिटकान् प्रमेहान् ।
भगन्दरार्थोऽर्बुदगंडमालाः ॥
निहंति कण्ड्वामयवातरक्त ।
पित्तोद्भवान् गुह्यभवान् व्रणांश्च ॥
रसायनोऽयं मुनिना कृतश्च ।
मधुस्नुही नामक एष मुख्यः ॥
Sahasrayogam
Lehyam