माषस्यार्द्धाढकं देयं दशमूल्यास्तुलाऽर्द्धकम् ।
बलामूलश्च तस्याद्धं केतकीनां तथैव च
दक्षमांसपलं त्रिंशज् झिण्टिकापञ्चविंशतिः ।
जलद्रोणद्वये पक्त्वा पादशेषेऽवतारिते
तिलतैलस्यचप्रस्थंपयो दत्त्वा चतुर्गुणम्
जीवनीयानि यान्यष्टौ मञ्जिष्ठाचव्यकट्फलम्
व्योषं रास्ता कणामूलं मधुकं पुष्करं तथा
माषात्मगुप्ते सैरण्डा शताह्वा लवणत्रयम्
कृष्णाऽश्वगन्धाह्यमृता यमानीन्द्रवरी शटी ।
नागरं मागधी मुस्तं वर्षाभू रजनीद्वयम्
शतावरी बृहत्यौ च एतैरक्षसमन्वितैः ।
पक्षाधातेषु सर्वेषु ह्यर्दिते च हनुग्रहे ।।
मन्दश्रुतौ चाश्रवणे तिमिरे च त्रिदोषजे ।
हस्तकम्ये शिरः कम्पे गात्रकम्पे शिरोग्रहे
शस्तं कलायखञ्जे च गृध्रस्यामवबाहुके
बाधिर्ये कर्णनादे च सर्ववातविकारनुत्
दण्डापतानकेचैव मन्यास्तम्भे विशेषतः
हनुस्तम्भे प्रशस्तं स्यात्सूतिकाऽऽतङ्कनाशनम्
त्वच्यं मांसप्रदं चैव शुक्राग्निबलवर्द्धनम्
अण्डवृद्ध्यन्रवृद्धी वा वातरक्तं च नाशयेत् ॥
Bhaishajya Ratnavali- Vata vyadhi
Taila