शतत्रयं प्रसारण्या द्वे च पीतसहाचरात्
अश्वगन्धैरण्डबला वरी रास्ना पुनर्नवा
केतकी दशमूलञ्च पृथक्त्वक्पारिभद्रतः
प्रत्येकमेषान्तु तुला तुलार्द्धं किलिमात्तथा
तुलार्द्धंस्याच्छिरीषाच्चलाक्षाया: पञ्चविंशतिः ।
पलानिलोध्राच्चतथा सर्वमेकत्र साधयेत्
जलं पञ्चाढकशते सपादे तत्र शेषयेत् ।
द्रोणद्वयं काञ्जिकञ्च षड्विंशत्याढकोन्मितम्
क्षीरदध्नोः पृथक् प्रस्थान् दश मस्त्वाढकं तथा ।
इक्षुरसाढकौ चैव छागमांसतुलात्रये
जलपञ्चचत्वारिंशत् प्रस्थान्पक्वेतुशेषयेत् ।
सप्तदशरसप्रस्थान् मञ्जिष्ठाक्वाथ एव च
कुडवोनाढकोन्मानो द्रवैरेतैस्तु साधयेत्
सुशुद्धतितैलस्य द्रोणं प्रस्थेन संयुतम्
काञ्जिकं मानतो द्रोणं शुक्तेनात्र विधीयते ।
Bhaishajya Ratnavali-Balarogadhikara
Taila