माषक्वाथेबलाक्वाथेरास्नायादशमूलजे
प्रसारण्याः शताह्वायाः प्रस्थं दद्याद्भिषग्वरः
तत्क्वाथस्तैलसमो दधि क्षीरं समं समम्
लाक्षारसं काञ्जिकं च तिलतैलं प्रदापयेत्
शतावरीविदायोंश्च रसं तैलार्द्धमेव च ।
शताह्वा मधुरी मेथी रास्ना वारणपिप्पली
मुस्तकं चाश्वगन्या च उशीरं मधुयष्टिका
शालपर्णी पृश्निपर्णी बला च बहुपुत्रिका
पलद्वयं गृहीत्वा च तैलपात्रे प्रदापयेत् ।
वातरोग निहन्त्याशु मन्यास्तम्भं नियच्छति ।
हनुस्तम्भविकारं च जिह्वादन्तगलग्रहान्
प्रमेहान् विंशति हन्ति गात्रकम्पादिकं जयेत्
एतान् हरति रोगांश्च तैलं माषबलादिकम्
Bhaishajya ratnavali
Taila