Kwatha
Kalka
माषस्यार्द्धाढकंदत्त्वातुलाऽर्द्धंशमूलतः
पलानिच्छागमांसस्यत्रिंशद्द्रोणेऽम्भसः पचेत्
पूतशीते कषाये च चतुर्थांशावशेषिते ।
प्रस्थস্च तिलतैलस्य पयो दत्त्वा चतुर्गुणम्
आत्मगुप्तोरुबूकश्च शताह्वा लवणत्रयम्
जीवनीयानि मञ्जिष्ठा चव्यचित्रककट्फलम्
सव्योषं पिप्पलीमूलं रास्नामधूक सैन्धवम्
देवदार्वमृताकुष्ठं वाजिगन्धा वचा शटी
एतैरक्षसमैर्भागैः साधये अन्मृदुनाग्निना
पक्षाघातेऽर्दिते वाते बाधिर्ये हनुसंग्रहे
कर्णनादे शिरःशूले तिमिरे च त्रिदोषजे
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङक्रमे
कलायखञ्जे पाङ्गुल्ये गृध्रस्यामव बाहुके
पाने बस्तौ तथाऽ भ्यङ्गे नस्यकर्णाक्षिपूरणे
तैलमेतत्प्रशंसन्ति सर्ववातरुजापहम् ।
Bhaishajya Ratnavali-Vata vyadhi
Taila