Kwatha
Kalka
Taila
Ksheera
Prakshepam
अश्वगन्धां बलां बिल्वं पाटलां बृहतीद्वयम् ।
श्वदंष्ट्रातिबला निम्बं स्योनाकं च पुनर्नवा
प्रसारिणीमग्रिमन्थं कुर्याद्दशपलं भिषक्
चतुद्र्रोणे जले पक्त्वा पादशेषं शृतं नयेत्
तैलाढकेन संयोज्य शतावर्या रसाढकम्
क्षिपेत्तत्र च गोक्षीरं तैलात्तस्माच्चतुर्गुणम् ।।
शनैर्विपाचयेदेभिः कल्कैर्द्विपलिकैः पृथक् ।
कुष्ठैलाचन्दनबलामांसीशैलेयसैन्धवैः ।
अश्वगन्धावचारास्नाशतपुष्पेन्द्रदारुभिः
पर्णींचतुष्टयेनैव तगरेण च साधयेत् ।
तत्तैलं नावनेऽभ्यङ्गे पाने बस्तौ च योजयेत् ।
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् ।
खल्लत्वं बधिरत्वं च गतिभङ्गं कटिग्रहम्
गात्रशोषेन्द्रियध्वंसावसृक्शुक्रज्वरक्षयान्
अन्त्रवृद्धिं कुरण्डं च दन्तरोगं शिरोग्रहम्
पार्श्वशूलं च पाङ्कुल्यं बुद्धिहानिं च गृध्रसीम्
अन्यांश्च विषमान्वाताञ्जयेत्सर्वाङ्गसंश्रयान् ।
अस्य प्रभावाद्वन्ध्यापि नारी पुत्रं प्रसूयते
मर्त्यो गजो वा तुरगस्तैलादस्मात्सुखी भवेत् ।
यथा नारायणो देवो दुष्टदैत्यविनाशनः
तथैव वातरोगाणां नाशनं तैलमुत्तमम् ।
Bhaishajya Ratnavali Vatavyadhi chikitsa
Taila