Kwatham
Prakshepachoorna
Madhuradravya
मृद्वीकायाः पलशतं चतुर्द्रोणेऽम्भसः पचेत्।
द्रोणशेषे सुशीते च पूते तस्मिन्प्रदापयेत् ।।
तुले द्वे क्षौद्रखण्डाभ्यां धातक्याः प्रस्थमेव च।
कङ्कोलकं लवङ्गं च फलं जात्यास्तथैव च ।।
पलांशकं च मरिचत्वगेलापत्रकेसरम् ।
पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुके।।
घृतभाण्डे विनिक्षिप्य चन्दनागरुधूपिते ।
कर्पूरवासितो ह्येष ग्रहण्या दीपनः परः।।
अर्शसां नाशने श्रेष्ठ उदावर्तस्य गुल्मनुत्।
जठरक्रिमिकुष्ठानि व्रणास्तु विविधांस्तथा ।।
अक्षिरोगशिरोरोगगलरोगांश्च नाशयेत् ।
Sarngadhara Samhitha, Asavarishta kalpana
Asava AND Arishta