नवं गुदांच सङ्गृह्य शतमेक पलम् तथा
बावरीत्वचमादाय बदरीत्वचमेव च
प्रस्थं प्रस्थं प्रदातव्यं पूगं देयं यथोचितम्
लोध्रां च कुडवं दत्वा आद्रकं च पलद्वयम्
तोयमष्टगुणं दत्वा गुंड संगोलयेत्सुधीः
प्रथमे चार्द्रक दद्यात् द्वितीये बावरीत्वचम
तृतीये बदरीं दत्वा गोलयित्वा च भिषग्वरः
मुखेशरावकं दत्वा यत्नात्कृत्वा च बन्धनम्
मुखसंबन्धनं कृत्वा स्थापयेदिन विंशतिं
मृन्मये मोचिकायन्त्रे मयूराख्येपि यन्त्रके
यथाविधिप्रकारेण मन्दमन्देन वह्निना
चुल्लीमध्ये विघातव्यं मृत्तिकादृढभाजने
नदौषधं च तन्मध्ये समुद्धृत्य विनिक्षिपेत्
नलस्य युगलं दत्वा कुम्भौ च गजकुम्भवत्
कुम्भमध्ये निधातव्यं पूगं च सैलवालुकम्
देवदारु लवङ्गं च पद्मकोशीर चन्दनम्
शतपुष्पा यवानी च मरिचं जीरकद्वयम्
शटी मांसी त्वगेला च जातीफलं समुस्तकम्
ग्रन्थिपर्णी तथा शुण्ठी मिशि मेथीचचन्दनम्
एषांचाद्धपलान् भागान् कुट्टयित्वाविनिक्षिपत्
पथाविधिप्रकारेण चानलं दापयेत् सुधीः
बुद्धिमान् स्रावणं कृत्वा उद्धरेद्विधिवत्सुराम्
एतन्मध्यं पिबेन्नित्यं यथाधातुवयः क्रमम्
आरोग्यजननं देहदार्ढ्यकृद्वलवर्द्धनम्
मेधा अग्निस्मृति कृद्वीर्यशुक्र कृद्वातनाशनम्
बलपुष्टिकरं चैव कामसंदीपनं परम्
दश स्त्रीयो रमेन्नित्यमानन्द उपजायते
रणे तेजोमयः सद्यो यथा भीमपराक्रमः
नातः परतरः किञ्चिद् रणोत्साहप्रदं महत्
देवासुरे युद्धकाले शुक्रेण परिनिर्मितम्
Bhaishajya Ratnavali
Asava AND Arishta