Kwatha
Kalka
गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करान्।
पिष्ट्वाऽष्टादशसंगुणेऽम्भसि धृतान् खण्डैः सहायोमयैः।
पात्रे लोहमये त्र्यहं रविकरैरालोडयन् पाचये-
दग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत्पचेत्
पूतस्यांशः क्षीरतोंऽशस्तथांऽशौ
भार्ङ्गाभिर्यासाद् द्वौ वरायास्त्रयों ऽशाः ।
अंशाश्चत्वारश्चेहहैयङ्गवीनात्
एकीकृत्यैतत्साधयेत्कृष्णलौहे ॥
विमलखण्डसितामधुभिः पृथक्
युतमयुक्तमिदं यदि वा घृतम्।
स्वरुचिभोजनपानविचेष्टितो
भवति ना पलशः परिशीलयन्॥
श्रीमान्निर्धूतपाप्मा वनमहिषबलो
वाजिवेगः स्थिराङ्गः
केशैभृङ्गाङ्गनीलैर्मधुरसुरभिमुखो
नैकयोषिन्निषेवी।
वाङ्मेधाधीसमृद्धः सुपटुहुतवहो
मासमात्रोपयोगाद्
धत्तेऽसौ नारसिंहं
वपुरनलशिखातप्तचामीकराभम्॥ १७२ ॥
अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्यपि।
चक्रोज्जवलभुजं भीता नारसिंहमिवासुराः॥
Ashtanga Hridaya Rasayana vidhi
Ghritham