Reference
विल्वाग्निमन्थ श्योनाक पाटला पारिभद्रकाः
प्रसारिण्यश्वगन्धा च बृहतीं कण्टकारिका ।
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा
एषां दशपलान् भागान् चतुर्द्रोणे अम्बसः पचेत् ।
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत्
शतपुष्पा देवदारु मांसीं शैलेयकं वचा ।
चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयं
रास्ना तुरगगन्धा च सैन्धवं सपुवर्नवं ।
एषां द्विपलिकान् भागान् पेषयित्वा विनिक्षिपेत्
शतावरीरसं चैव तैलतुल्यं प्रदापयेत् ।
आजं वा यति वा गव्यं क्षीरं दत्वा चतुर्गुणं
पाने बस्तौ तथाभ्यङ्गे भोज्येचैव प्रशस्यते ।
अश्वो वा वातसंभग्नो गजो वा यदि वा नरा
पङ्गुल पीठसर्पिर्वा तैलनानेन सिद्ध्यति ।
अधोभागे च ये वाताः शिरो मध्यगताश्च ये
दन्दशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे ।
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला
क्षीणेन्द्रिया नष्टशुक्ला ज्वरक्षीणाश्च ये नरा ।
बधिरालल्लिजिह्वाश्च मन्दमेध स एव च
अल्पप्रजा च या नारी या च गर्भं न विन्दति ।
वातार्तौ वृषणौ येषामान्त्रवृद्धिश्च दारुणा
एषतैलवरं तेषां नाम्ना नारायणं स्मृतं ।
तगरं नतमत्रस्यादभावे शीतली जटा ।।
Sahasrayoga