धात्रीजीरकमयूरपिंछकांडसमन्वितं ।
वराळजाजीफलतत्पत्रिका वाळकानिच॥
नलदामययष्ट्याह्वयशठीकंदानिचाखिलैः ।
तुल्यांशं चदंनं धूपपत्रं चानेन संयुतं ।।
आदाय चूर्णयेत्तानि जंबीरफलवारिणा।
तच्चूर्ण पेषयित्वाथ छायायांन्यस्तशोषयेत् ॥
लांगलीफलतोयेन पश्चात्संचूण्ण्य पेषयेत् ।
शोषयेच्च तथा भूयो हिमगंधोहकेन च ॥
पुनस्संचूर्ण्य कर्पूरधूपिकासार मिश्रितैः ।
योजयेन्मृगरेतश्च गंधाद्यं तत्रकिंचन॥
स एष नासिकाचूर्णों दुष्टपीनसनाशन: ।
शिरःकंपे च जाड्ये च सूर्यावर्ते शिरोरुजि ।।
मुखनासिकदुर्गधे चूर्णोयमपराजित: ।
जत्रूर्ध्वसंभवान् रोगान् सर्वाच्च विनियच्छति ॥
Sahasrayogam
Choornam