पाकांस्त्रीनुपकुल्यायाः पुराणमरिचस्य तु ।
पञ्चबीजस्य पथ्याया द्वादशेन्दोश्च विंशति ।।
भद्ररोहिणिकायाश्च पञ्च हेम्नोञ्जनस्य च ।
तुत्थस्य च समादाय पिष्ट्वामलकवारिणा ।।
सप्ताहं तत्कृता वर्तिरनातपविशोषिता ।
घृष्ट्वा हिमाम्बुना दत्ता दृशोः पाकं नियच्छति ।।
दृक्सादं तिमिरञ्चापि रक्तजांश्च गदास्तथा ।
दृक्चाञ्जल्यं निशान्ध्यंश्च नाम्नेदं नयनामृतं ।।
Arogya Kalpa Drumam
Rasakriya