Kalka:
Sneha:
निम्बामृतावृषपटोलनिदिग्धिकानां भागान्
पृथक् दश पलान् विपचेद्धटेऽपाम् ।
अष्टांशशेषितरसेन पुनश्च तेन
प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः ॥
पाठाविडङ्गसुरदारुगजोपकुल्या
द्विक्षारनागरनिशामिशिचव्यकुष्ठै :
तेजोवतीमरिचवत्सकदीप्यकाग्रि
रोहिण्यरुष्करवचाकणमूलयुक्तैः
मञ्जिष्ठयाऽतिविषया विषया यवान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसङ्घयैः।
तत्सेवितं विधमतिप्रबलं समीरं
सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥
नाडीव्रणार्बुदभगन्दरगण्डमाला
जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्
यक्ष्मारुचिश्वसनपीनसकासशोफ
हृत्पाण्डुरोगमदविद्रधिवातरक्तम्॥
Ashtanga Hridaya Vatavyadhi chikitsa
Taila