जीरकं हपुषा धान्यं शताह्वा सुरदारु च ।
यवानी क्रुष्टिका हिंगुपत्रिका कासमर्दकं ।।
पिप्पली पिप्पलीमूलमजमोजाथ बाष्पिका ।
चित्रकं च पलांशानि तथान्यच्च चतुःपलं ।।
कशेरुकं नागरं च कुष्ठं दीप्यकमेव च ।
गुडस्य च शतं दद्यात् घृतप्रस्थं तथैव च ।।
क्षीरद्विप्रस्थसंयुक्तं शनैः मृद्वग्निना पचेत् ।
पंचजीरक इत्येष सूतिकानां प्रशस्यते ।।
गर्भार्तिनीनां नारीणां बृंहणीये समारुते ।।
विंशतिव्यापदो योनेः कासं श्वासं ज्वरं क्षयं ।
हलीमकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रतां ।।
हन्ति पीनोन्नत कुचाः पद्मपत्रायतेक्षणाः ।
उपयोगात् स्त्रियो नित्यमलक्ष्मी मलवर्जिता ।।
Sahasrayogam
Lehyam