Kwatha
Kalka
दशमूलबलामाषकार्पासास्थिकुलत्थकम् ।
प्रस्थं प्रस्थं पृथक् क्षुण्णं जलद्रोणद्वये पचेत् ।।
धान्याम्लं शूर्पसंयुक्तं पादशेषेण तेन तु ।
वाराहीतिलजैरंडनारिकेलजतक्रजैः ॥
पृथक पृथक् त्रिकुडुवं स्नेहस्य द्विगुणं पयः ।
कल्कैरेतैर्विपक्तव्यं रास्नासैंधवदारूकं ॥
कार्पासास्थिकुलत्थाग्नि गंडीरंच सुपेषितैः ।
जयेद्वातरूजास्तंभदीर्धभग्नरूजं तथा॥
बाहुशोषापबाहुं च बाहुस्तंभमथापि च।
करोति बाहुवृद्धिं च वातरोगान्निहंति च ।
पंच स्नेहमिदं प्रोक्तं ब्रह्मणा निर्मितं पुरा ॥
Sahasrayogam
Taila