Kalka
Sneha
मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः
द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम् ।
पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः
पिष्ट्वाऽक्षांशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम् ।
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम् ।
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्।
एतत्परं च बालानां ग्रहघ्नं देहवर्धनम्
Ashtanga Hridaya Uthara sthana Guhya roga prathishedha
Ghritham