Kalka
Sneha:
पिप्पली मदनं बिल्वं शताह्वां मधुकं वचाम्
कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च
पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्
अर्शसां मूढ़वातानां तच्छ्रेष्ठमनुवासनम्
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्।
पिच्छास्त्रावं गुदे शोफं वातवर्चोविनिग्रहम्
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात् ।
Ashtanga Hridaya Arsoroga chikitsa
Taila