Prakshepachoorna
Sandhanadravya
Madhuradravya
पिप्पली मरिच चव्यं हरिद्रा चित्रको घन:।
विडङ्गं क्रमुको लोध्रः पाठा धात्र्येलवालुकम् ।
उशीरं चन्दनं कुष्ठं लवङ्गं तगरं तथा।।
मांसी त्वगेलापत्रं च प्रियङ्गुुर्नागकेशरम् ।
एषामर्धपलान्भागान्सूक्ष्मचूर्णीकृतान्शुभान् ।।
जलद्रोणद्वये क्षिप्त्वा दद्याद्गुडतुलात्रयम्।
पलानि दश धातक्या द्राक्षाषष्टिपलाभवेत्।।
एतान्येकत्र संयोज्य मृद्भाण्डे च विनिक्षिपेत्।
ज्ञात्वाऽऽगतरसं तस्य पाययेदग्न्यपेक्षया ॥
क्षयं गुल्मोदरं कार्श्यं ग्रहणीं पाण्डुतां गदम्।
अर्शांसि नाशयेच्छीघ्रं पिप्पल्याद्यासवस्त्वयम्।
Sarngadhara Samhitha, Asavarishta kalpana
Asava AND Arishta