Madhuradravya
पचेत्तुलां पूतिकरञ्जवल्काद्द्वे मूलतश्चित्रककण्टकार्योः।
द्रोणत्रयऽपां चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥
पलिकं च सुचूर्णितं त्रिजातत्रिकटुग्रन्थिकदाडिमाश्मभेदम् ।
पुरपुष्करमूलधान्यचव्यं हपुषामार्द्रकमालवेतसं च॥
शीतीभूतं क्षौद्रविंशत्युपेतमार्द्रद्राक्षाबीजपूरार्द्रकैश्च।
युक्तं कामं गण्डिकाभिस्तथेक्षौः सर्पि: पात्रे मासमात्रेण जातम् ॥
चुक्रं क्रकचमिवेदं दुर्दामनां वह्निदीपनं परमम्। ।
पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम्
Ashtanga Hridaya, Arso roga chikitsitam
Asava AND Arishta