बला शतावरी शिग्रु वरणार्क करञ्जका
एरण्डञ्चापि कोरण्डो वाजीगन्धा प्रसारिणी ।
पञ्चमूलं वरिष्ठं च तैः समैः क्वथिते जले
पादावशेषिते दद्यात् तैलस्यार्धाढकं भिषक् ।
क्षीरं तत् द्विगुणं दद्यात् तत्समे दधिकाञ्जिके
तगरामरकाष्ठैला शुण्ठीसर्षप चोरका ।
शताह्वा कुष्ठसिन्धूत्थ रास्ना कालानुसारिकाः
वचा सचित्रकं मांसी सरलं कटुकरोहिणी ।
प्रत्येकं कार्षिकान् भागान् प्रतिवापाय पण्डितः
तत्सम्भारेण मृद्वग्नी सिद्धं तिलजमादरात् ।
पानाभ्यञ्जननस्येषु विधेयं वस्तिकर्मिणी
अशीतिवातजान् रोगान् हन्यादाशु सुदारुणान् ।
वातगुल्मार्दितं वृद्धिमान्त्रजं वातविद्रधीं
मूढगर्भं तथा शूलान् विविधांश्च विनाशयेत् ।
एतत् तैलं महावीर्यमात्रेय प्रमुखैःपुरा
निर्मितं नामतश्चापि प्रभञ्जनविमर्दनम् ।।