पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम्॥४५॥
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्।
बाह्लीकबिल्वातिविषारोध्रतोयदगैरिकम्॥४६॥
शुण्ठीमधूकमाचीकारक्तचन्दनकट्फलम्।
कट्वङ्गवत्सकानन्ताधातकीमधुकाञ्जनम्॥४७॥
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तन्दुलाम्भसा।
पिबेदर्श:स्वतीसारे रक्तं यस्योपवेश्यते॥४८॥
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्।
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्॥४९॥
चूर्ण पुष्यानुगं नाम हितमात्रेयपूजितम्।
Ashtanga Hridaya- Guhya roga
Choornam