तालीसपत्रचविकामरिचानां पलं पलम्
कृष्णातन्मूलयोद्वै द्वे पले शुण्ठी पलत्रयम्
चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्।
गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत् ॥
मद्ययूषरसारिष्टमस्तुपेयापयोनुपः
वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम्
ज्वरश्चयथुपाण्डुत्वगुल्मपानात्ययार्शसाम्
प्रसेकपीनसश्वासकासानां च निवृत्तये
अभयां नागरस्थाने दद्यात्तत्त्रैव विङ्ग्रहे।
छद्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः
पक्वेन वटकाः कार्या गुडेन सितयाऽपि वा।
परं हि वह्निसम्पर्काल्लिघिमानं भजन्ति ते
Ashtanga Hridaya Grahani Dosa chikitsa
Lehyam