श्रीखण्ड मरिचं मांसी रजन्यौ चित्रकं घनम् ।
उशीरं तगरं द्राक्षा चन्दनं नागकेशरम् ।
पाठां धात्री कणां चव्यं लवङ्गैलबालुकम् ।
लोघ्रश्चार्द्धपलोन्मानं जलद्रोणद्वये क्षिपेत्
द्राक्षां पष्टिपलां तत्र गुडस्य च तुलात्रयम् ।
धातकीं द्वादशपलाञ्चकत्र परियोजयेत् ।
मासं संस्थाप्य मृद्भाण्डे वस्त्रपूतं रसं नयेत्
पाययेन्मात्रया वैद्यो वयोवह्याद्यपेक्षया ३२॥
पानात्ययं परमदं पानाजीर्णश्च नाशयेत् ।
पानविभ्रममत्युग्रं श्रीखण्डासव आशु च
Bhaishajya Ratnavali-Madatyaya
Asava AND Arishta