Madhuradravya
त्रिफला रजनीयुग्मं कण्टकारीयुगं शठी
त्रिकटु ग्रन्थिकं मूर्वागुडूची धन्वयासकः
कटुका पर्पटो मुस्तं त्रायमाणा च वालकम्
निम्ब: पुष्करमूलं च मथुयष्टी चवत्सकम्
यमानीन्द्रयवो भार्ङ्गी शिग्रुबीजं सुराष्ट्रकम् ।
वचा त्वक्पद्मकोशीरं चन्दनातिविषाबला:
शालिपर्णी पृश्नपर्णी विडङ्गं तगरं यथा
चित्रको देवदारुश्च चव्यं पत्रं पटोलजम्
जीवकर्षभकौ चैव लवङ्गं वंशलोचना ।
पुण्डरीकं च काकोली पत्रकं जातिपत्रकम्
तालीसपत्रं च तथा समभागानि चूर्णयेत्
सर्वचूर्णस्य चार्धाशं कैरातं निक्षिपेत्सुधीः
एतत्सुदर्शनं नाम चूर्ण दोषत्रयापहम् ।
ज्वराश्च निखिलान्हन्यान्नात्र कार्या विचारणा ।
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान्विषमज्वरान् ।
संनिपातोद्भवांश्चापि मानसानपि नाशयेत्
शीतज्वरैकाहिकादीन्मोहं तन्द्रां भ्रमं तृषाम् ।
श्वासं कासं च पाण्डुं च हृद्रोगं हन्ति कामलाम्
त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम् ।
शीताम्बुना पिबेद्धीमान्सर्वज्वरनिवृत्तये
सुदर्शनं यथा चक्रं दानवानां विनाशनम्
तद्वज्ज्वराणां सर्वेषामिदं चूर्ण प्रणाशनम् ।
Sharangadhara Samhita
Asava AND Arishta