त्रिफला रजनीयुग्मं कण्टकारीयुगं शठी
त्रिकटु ग्रन्थिकं मूर्वागुडूची धन्वयासकः
कटुका पर्पटा त्रायमाणा च वालकम्
निम्बः पुष्करमूलं च मधुयष्टी च वत्सकम्
यवानीन्द्रयवो भार्ङ्गी शिग्रुबीजं सुराष्ट्रकम्
वचा त्वक्पद्मकोशीरं चन्दनातिविषा बला
शालिपर्णी पृश्नपर्णी विडङ्ग तगरं यथा
चित्रको देवदारुश्च चव्यंपत्रं पटोलजम
जीवकर्षभकौ चैव लवंगं वंसलोचना
पुण्डरीकं च काकोली पत्रकं जातिपत्रकम्
तालीसपत्रम् च तथा समभागानि चूर्णयेत्
सर्वचूर्णस्य च अर्धांशं कैरातं निक्षिपेत् सुधीः
एतान् सुदर्शनं नाम चूर्णं दोषत्रयापहं
ज्वरांश्च निखिलंहन्यांनात्र कार्या विचारणा
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान विषमज्वरान
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत्
शीतज्वरैकाहिकादीन्मोहं तन्द्रां भ्रमां तृषाम्
श्वासं कासं च पाण्डुम् च हृद्रोगं हन्ति कामलाम्
त्रिकपृष्ठकटीजानु पाश्वशूल निवारणम्
शीताम्बुना पिबेद्धीमान सर्वज्वरनिवृत्तये
सुदर्शनं यथा चक्रं दानवानां विनाशनम
तद्वज्ज्वराणां सर्वेषामिदं चूर्णं प्रणाशनम ।
Sarngadhara Samhitha
Gulika