Kwatha
Kalka
Sneha
पचेत्पुनर्नवतुलां तथा दशपलाः पृथक्
दशमूलपयस्याश्वगन्धैरण्डशतावरीः
द्विदर्भशरकाशेक्षुमूलपोटगलान्विताः
वहेऽपामष्टभागस्थे त्र त्रिंशत्पलं गुडात्
प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा।
आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम्
यष्टीमधु (चित्र) कमृद्वीकायवानी-
नागराणि च (क्षारनागरम्)।
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ॥
वातातपाध्वयानादिपरिहार्येष्वयन्त्रणम्
प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनाम्॥
नृणां स्त्रीवृन्दभर्तृणामलक्ष्मीकलिनाशनम्।
सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम्॥
वर्ध्मविद्रधिगुल्मार्शोयोनिमेढानिलार्तिषु
शोफोदरखुडप्लीहविड्विबन्धेषु चोत्तमम्॥
Ashtanga Hridaya Vidradhi Vridhi chikitsa
Ghritham