पचेत्पुनर्नवतुलां तथा दशपलाः पृथक् |
दशमूलपयस्याश्वगन्धैरण्डशतावरीः ||
द्विदर्भशरकाशेक्षुमूलपोटगलान्विताः |
वहे अपामष्टभागस्थे तत्र त्रिंशत्पलं गुडात् ||
प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा |
आवपेद द्विपलांशं च कृष्णातन्मूलसैन्धवम् ||
यष्टिमधुकमृद्वीकायवानीनागराणि च |
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनं ||
वातातपाध्वयानादिपरिहार्येष्वयन्त्रणम् |
प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनां ||
नृणां स्त्रीवृन्दभर्तृणामलक्ष्मीकलिनाशनम् |
सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम् ||
वर्ध्मविद्रधिगुल्मार्शोयोनिमेढ्रानिलार्तिषु |
शोफोदरखुडप्लीहविड्विबन्धेषु चोत्तमम् ||
Ashtanga Hridayam, Vridhi vidradhi
Kashayam