Kwatha:
Choorna:
Pathrapaka:
पचेत्पुनर्नवतुलां तथा दशपलाःपृथक् l
दशमूलपयस्याश्वगन्धैरण्डशतावरीः ll
द्विदर्भशरकाशेक्षुमूलपोटगलान्विताः ।
वहेऽपामष्टभागस्थे तत्र त्रिंशत्पलम् गुडात् ॥
प्रस्थमेरन्डतैलस्य द्वौ घृतात्पयसस्तथा ।
आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम् ॥
यष्टीमधु(चित्र)कमृद्वीकायवानीनागराणि च(क्षारनागरम्) |
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ॥
वातातपाध्वयानादिपरिहार्यैश्वयन्त्रणम् ।
प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनाम् ।
नृणां स्त्रीवृन्दभर्तृणामलक्ष्मीकलिनाशनम् ।
सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम् ॥
वर्ध्मविद्रधिगुल्मार्शोयोनिमेढ्रानिलार्तिषु ।
शोफोदरखुडप्लीहविड्विबन्धेषु चोत्तमम् ॥
Ashtanga Hridaya Vidradhi chikitsa
Lehyam