तालीसपत्रचविकामरिचानां पलं पलम्।
कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठी पलत्रयम्॥
चतुर्जातमुशीरं च कर्षांश श्लक्ष्णचूर्णितम्।
"गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत्॥
मद्ययूषरसारिष्ट मस्तुपेयापयोनुपः
वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम्॥
ज्वरश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम्।
प्रसेकपीनसश्वासकासानां च निवृत्तये॥
अभयां नागरस्थाने दद्यात्तत्रैव विड्ग्रहे।
छर्द्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः॥
पक्वेन वटकाः कार्या गुडेन सितयाऽपि वा।
परं हि वह्निनसम्पर्काल्लघिमानं भजन्ति ते॥
Ashtanga Hridaya Grahani chikitsa
Lehyam