त्रिफलामृतवल्ली च केतक्यसनकोबलां।
एरंडमिंद्रवल्लीं च जलद्रोणे विपाचयेत् ।।
रसेन तेकराजस्य हठस्य स्वरसेन च ।
तैलप्रस्थं पचेद्धीमान द्विगुणक्षीरसंयुतं ।।
कल्कं च कुष्ठयष्ट्याह्वपद्मकोशीरचंदनैः ।
मुस्तैलापत्रमांसी च हयगंधा बलामृता ॥
सारिवामरकाष्ठं च लवंगनतचोरकाः ।
उत्पलाद्यंजने नीलीश्लक्ष्णपिष्टान् समावपेत्॥
शिरोरोगप्रतिश्यायौ विशेषेण विनाशयेत् ।
खालित्यं चैव पालित्यं केशानां भंजनं तथा॥
त्रिफलाद्यमिदं तैलं ऊर्ध्वजत्रुगदापहम् ।
Sahasrayogam
Taila