दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम् ।
पाठाश्वगन्धापमार्गस्वगुप्तातिविषामृताः ॥
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात् ।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥
बोटस्थविरभल्लातविकङ्कतशतावरीः ।
पूतिकरञ्जशम्याकचन्द्रलेखासहाचरम् ॥
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम् ।
पथ्यासहस्रं सशतं यवानां चाढकद्वयम् ॥
पचेदष्टगुणेतोये यवस्वेदेऽवतारयेत् ।
पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलम् ॥
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः
अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च ॥
शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत् ।
चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत्ततः ॥
धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत् ।
रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम् ॥
स्वस्थानं निष्परीहारं सर्वर्तुषु च शस्यते ।
Ashtanga Hridaya Kasa chikitsa
Lehyam