Swarasa
Kwatha
Kalka
Sneha
दार्वी मधुक मत्स्याक्षी पद्मा पाषाणभेदकः
बृहत्यंशुमती द्वन्द्व शारिवेक्षु कशेरुकैः
कपोतपङ्केक्षुरकं वसुकं शिग्रु वालकम्
वाराहीवरणं द्राक्षा यष्टी पलङ्कषा
पृथक् त्रिपलिकं क्षुण्णं सवृतुल्यं तु गोक्षुरम्
द्रोणे आपां विपचेत्तत्र पादशिष्टे परिस्रुते
प्रक्षिप्य सर्पिषः प्रस्थं तद्वत्क्षीरं वरीरसम्
धात्री बिम्बरसञ्चापि नालिकेरोदकं तथा
कूश्माण्डोर्वारुकजलं स्नेहद्विगुणितं पृथक्
द्रवैस्सुपिष्टैः संयुक्तमेतल् मृद्वग्निना पचेत्
परुषकोत्पल तुडी मधूक हिमदारुभिः
त्रिफला पिप्पली कौन्ती श्रृङ्गवेरै ससैन्धवैः
हस्तिपिप्पल्यपामार्ग मञ्जिष्ट पद्मकेसरैः
मुस्ता कुस्तुम्बरी लोध्र हयगन्धा पुनर्न्नवैः
स्वयंगुप्तेक्षुरफर्लै वार्द्धिपत्रकः श्रृङ्गिभिः
शिलाजत्वष्टभागैस्तैसिद्धम् तत्सेवितं घृतं
मूत्रकृच्छ्राणि सर्वाणि शर्कराश्मरीमपि
पानवस्त्यादिभिर्युक्तो नाशयेन्नात्र संशयः
वातपितसमुत्पन्नान् सर्वान् वस्तिगतान् गदान्
प्रमेहेण सहक्षिप्रमपावर्तयते ध्रुवम्
वस्त्यामयान्तकमिदं देवदेवेन भासितम् ।
Sahasrayogam
Ghritham