मृतं सूतं मृतंलोहं ताप्यं गन्धकतालकम् ।
पथ्या शृङ्गी विषं व्योषमग्निमन्थञ्च टङ्ग्णम् ।।
तुल्यंखल्लेदिनं मद्यं मुण्डीनिर्गुण्डिकाद्रवैः ।
द्विगुञ्जां वटिकां खादेत् सर्ववातप्रशान्तये ।।
कणाचूर्णयुतं चैव जिङ्गीक्वाथं पिबेदनु ।
साध्यासाध्यं निहन्त्याशु रसो वातगजाङ्कुशः ।।
सप्ताहाद् गृध्रसीं हन्ति दारुणं सान्निपातिकम् ।
कोष्ठुशीर्षकवातञ्चाप्यवबाहुकसंज्ञकम् ।।
मन्यास्तम्भमुरुस्तम्भं वातरोगं विनाशयेत् ।
पक्षाघातादिरोगेषु कथितः परमोत्तमः ।।
Bhaishajya Ratnavali
Bhasma and Sindoora