पचेद्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते।
क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान् ॥
शृङ्गीभार्गीघनग्रन्थिधन्वयासान् पलार्धकान्।
सर्पिषः षोडशपलं चत्वारिंशत्पलानि च ॥
मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्।
दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत् ॥
पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च ।i
लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित् ॥
Ashtanga Hridaya Kasa chikitsa
Lehyam