यवानीतिन्तिडीकाम्लवेतसौषधदाडिमम्
कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्।
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च।
चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि, हिनस्ति च
विबन्धकासहत्पार्श्वप्लीहार्शोग्रहणीगदम्
Ashtanga Hridaya- Rajayakshma chikitsa
Choornam