पिप्पली पिप्पलीमूल चव्यचित्रकनागरैः
पाठा विडङ्गेन्द्रयवैर्हिङ्गुभार्ङ्गीवचान्वितैः
सर्षपातिविषाजाजी जीरकैः कुष्ठसंयुतैः
गजकृष्णाजमोजाभ्यां कटुकामूर्वमिश्रितैः
समभागान्वितैरेतैः समभागश्च गुग्गुलुः
एतत् सञ्चूर्णितं सम्यक् मधुना च परिप्लुतं
योगराजमिदं नाम्ना भगन्दरहरं परं
अर्शांसि वातगुल्मं च पाण्डुरोगमरोचकं
निहन्यादाशुतान् सर्वान् दुर्वारानप्यसंशयम् ।।
Sahasrayogam
Choornam