चित्रकं पिप्पलीमूलं यमानी कारवी तथा ।
विडङ्गान्यजमोदा च जीरकं सुरदारु च ॥
चव्येला सैन्धवं कुष्ठं रास्ना गोक्षुरधान्यकम् ।
त्रिफला मुस्तकं व्योषं त्वगुशीरं यवाग्रजम् ॥
तालीशपत्रं पत्रञ्च श्लक्ष्णचूर्णानि कारयेत् ।
यावन्येतानि चूर्णानि तावन्मात्रस्तु गुग्गुलुम् ॥
सम्मर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत् ।
अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि ॥
योगराज इति ख्यातो योगोऽयममृतोपमः ।
आमवाताढ्यवातादीन् क्रिमिदुष्टव्रणानि च ॥
लीलीगुल्मोदरानाहदुर्नामानिि विनाशयेत् ।
अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा ॥
वातरोगाञ्जयत्येष सन्धिमज्जागतानपि ॥
Bhaishajya Ratnavali, Amavata chikitsa
Gulika